हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Venkatesha Mangalashtakam – श्री वेङ्कटेश मङ्गलाष्टकम्
श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः
पौत्रश्चन्द्रशिरोमणिः फणिपतिः शय्या सुराः सेवकाः ।
तार्क्ष्यो यस्य रथो महश्च भवनं ब्रह्माण्डमाद्यः पुमान्
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ १ ॥
यत्तेजो रविकोटिकोटिकिरणान् धिक्कृत्य जेजीयते
यस्य श्रीवदनाम्बुजस्य सुषमा राकेन्दुकोटीरपि ।
सौन्दर्यं च मनोभवानपि बहून् कान्तिश्च कादम्बिनीं
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ २ ॥
नानारत्न किरीटकुण्डलमुखैर्भूषागणैर्भूषितः
श्रीमत्कौस्तुभरत्न भव्यहृदयः श्रीवत्ससल्लाञ्छनः ।
विद्युद्वर्णसुवर्णवस्त्ररुचिरो यः शङ्खचक्रादिभिः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ३ ॥
यत्फाले मृगनाभिचारुतिलको नेत्रेऽब्जपत्रायते
कस्तूरीघनसारकेसरमिलच्छ्रीगन्धसारो द्रवैः ।
गन्धैर्लिप्ततनुः सुगन्धसुमनोमालाधरो यः प्रभुः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ४ ॥
एतद्दिव्यपदं ममास्ति भुवि तत्सम्पश्यतेत्यादरा-
-द्भक्तेभ्यः स्वकरेण दर्शयति यद्दृष्ट्याऽतिसौख्यं गतः ।
एतद्भक्तिमतो महानपि भवाम्भोधिर्नदीति स्पृशन्
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ५ ॥
यः स्वामी सरसस्तटे विहरतो श्रीस्वामिनाम्नः सदा
सौवर्णालयमन्दिरो विधिमुखैर्बर्हिर्मुखैः सेवितः ।
यः शत्रून् हनयन् निजानवति च श्रीभूवराहात्मकः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ६ ॥
यो ब्रह्मादिसुरान् मुनींश्च मनुजान् ब्रह्मोत्सवायागतान्
दृष्ट्वा हृष्टमना बभूव बहुशस्तैरर्चितः संस्तुतः ।
तेभ्यो यः प्रददाद्वरान् बहुविधान् लक्ष्मीनिवासो विभुः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ७ ॥
यो देवो भुवि वर्तते कलियुगे वैकुण्ठलोकस्थितो
भक्तानां परिपालनाय सततं कारुण्यवारां निधिः ।
श्रीशेषाख्यमहीन्ध्रमस्तकमणिर्भक्तैकचिन्तामणिः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ८ ॥
शेषाद्रिप्रभुमङ्गलाष्टकमिदं तुष्टेन यस्येशितुः
प्रीत्यर्थं रचितं रमेशचरणद्वन्द्वैकनिष्ठावता ।
वैवाह्यादिशुभक्रियासु पठितं यैः साधु तेषामपि
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ९ ॥
इति श्री वेङ्कटेश मङ्गलाष्टकम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.